तमु॑ त्वा॒ यः पु॒रासि॑थ॒ यो वा॑ नू॒नं हि॒ते धने॑ ।
हव्य॒ः स श्रु॑धी॒ हव॑म् ॥
तम् । ऊं॒ इति॑ । त्वा॒ । यः । पु॒रा । आसि॑थ । यः । वा॒ । नू॒नम् । हि॒ते । धने॑ ।
हव्यः॑ । सः । श्रु॒धि॒ । हव॑म् ॥
हेइन्द्र तमुत्वा तमेवत्वां स्तुमइतिशेषः यस्वं पुरापूर्व्स्मिन्काले हव्योह्वातव्यःआसिथ बभूविथधनलाभार्थं योवायश्चत्वं हिते शत्रुषु- निहितेधनेनिमित्तभूतेसति नूनमद्यापिहव्योह्वातव्योबभूविथ सत्वमस्मदीयंहवंस्तोत्रंश्रुधि श्रृणु ॥ ११ ॥