मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४५, ऋक् १२

संहिता

धी॒भिरर्व॑द्भि॒रर्व॑तो॒ वाजाँ॑ इन्द्र श्र॒वाय्या॑न् ।
त्वया॑ जेष्म हि॒तं धन॑म् ॥

पदपाठः

धी॒भिः । अर्व॑त्ऽभिः । अर्व॑तः । वाजा॑न् । इ॒न्द्र॒ । श्र॒वाय्या॑न् ।
त्वया॑ । जे॒ष्म॒ । हि॒तम् । धन॑म् ॥

सायणभाष्यम्

हेइन्द्र धीभिः स्तुतिभिः त्वद्विषयाभिःप्रीतेनत्वयाअनुगृहीतावयंअर्वद्भिरस्मदीयैरश्वैः अर्वतः शत्रुसंबन्धिनोश्वान् श्रवाय्यन् श्रवणी- यान् प्रशस्यान् वाजान् अन्नानिच हितंशत्रुषुनिहितंधनंच जेष्म त्वदनुग्रहाज्जयेम ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३