मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४५, ऋक् १४

संहिता

या त॑ ऊ॒तिर॑मित्रहन्म॒क्षूज॑वस्त॒मास॑ति ।
तया॑ नो हिनुही॒ रथ॑म् ॥

पदपाठः

या । ते॒ । ऊ॒तिः । अ॒मि॒त्र॒ऽह॒न् । म॒क्षुज॑वःऽतमा । अस॑ति ।
तया॑ । नः॒ । हि॒नु॒हि॒ । रथ॑म् ॥

सायणभाष्यम्

हेअमित्रहन् अमित्राणांशत्रूणांहन्तरिन्द्र तेत्वदीयामक्षुजवस्तमा अतिशयेनशीघ्रजवा याऊतिर्गतिः असतिअस्ति तयागत्यानोस्माकं- रथंहिनुहि प्रेरय शत्रुजयार्थंशीघ्रंगमय ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३