मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४५, ऋक् १५

संहिता

स रथे॑न र॒थीत॑मो॒ऽस्माके॑नाभि॒युग्व॑ना ।
जेषि॑ जिष्णो हि॒तं धन॑म् ॥

पदपाठः

सः । रथे॑न । र॒थिऽत॑मः । अ॒स्माके॑न । अ॒भि॒ऽयुग्व॑ना ।
जेषि॑ । जि॒ष्णो॒ इति॑ । हि॒तम् । धन॑म् ॥

सायणभाष्यम्

हेजिष्णो जयशीलेन्द्र रथीतमः अतिशयेनरथीमहारथः सत्वंअस्माकेन अस्मदीयेन अभियुग्वना अभियोक्त्राशत्रूणामभिभवित्रारथेन हितंशत्रुषुनिहितंधनंजेषि अस्मदर्थंजय ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३