मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४५, ऋक् १६

संहिता

य एक॒ इत्तमु॑ ष्टुहि कृष्टी॒नां विच॑र्षणिः ।
पति॑र्ज॒ज्ञे वृष॑क्रतुः ॥

पदपाठः

यः । एकः॑ । इत् । तम् । ऊं॒ इति॑ । स्तु॒हि॒ । कृ॒ष्टी॒नाम् । विऽच॑र्षणिः ।
पतिः॑ । ज॒ज्ञे । वृष॑ऽक्रतुः ॥

सायणभाष्यम्

विचर्षणिर्विशेषेणसर्वस्यद्रष्टा वृषक्रतुर्वर्षकर्मायइन्द्रः एकइत् एकएव कृष्टीनांप्रजानांपतिरधिपतिजंज्ञे अजायत नान्यःकश्चित् तमुत- मेवेन्द्रंहेस्तोतःस्तुहि ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४