मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४५, ऋक् १८

संहिता

धि॒ष्व वज्रं॒ गभ॑स्त्यो रक्षो॒हत्या॑य वज्रिवः ।
सा॒स॒ही॒ष्ठा अ॒भि स्पृधः॑ ॥

पदपाठः

धि॒ष्व । वज्र॑म् । गभ॑स्त्योः । र॒क्षः॒ऽहत्या॑य । व॒ज्रि॒ऽवः॒ ।
स॒स॒ही॒ष्ठाः । अ॒भि । स्पृधः॑ ॥

सायणभाष्यम्

हेवज्रिवः वज्रवन्निन्द्र गभस्त्योरात्मीययोर्हस्तयोर्वज्रंकुलिशंधिष्व धारय किमर्थं रक्षोहत्याय रक्षसांहननार्थं धृत्वाच स्पृधः स्पर्धमा- नाःअभि अभिगंत्रीरासुरीःसेनाः ससहीष्ठाः अत्यर्थमभिभव ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४