मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४५, ऋक् १९

संहिता

प्र॒त्नं र॑यी॒णां युजं॒ सखा॑यं कीरि॒चोद॑नम् ।
ब्रह्म॑वाहस्तमं हुवे ॥

पदपाठः

प्र॒त्नम् । र॒यी॒णाम् । युज॑म् । सखा॑यम् । की॒रि॒ऽचोद॑नम् ।
ब्रह्म॑ऽवाहःऽतमम् । हु॒वे॒ ॥

सायणभाष्यम्

प्रत्नं चिरंतनं सर्वेषामाद्यं रयीणांधनानांयुजं योजयितारं दातारंसखायंमित्रभूतं कीरिचोदनं कीरीणांस्तोतॄणांचोदयितारं ब्रह्मवाह- स्तमं अतिशयेनब्रह्मभिर्मंत्रैर्वहनीयं एवंविधमिन्द्रं हुवे आह्वयामि ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४