मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४५, ऋक् २०

संहिता

स हि विश्वा॑नि॒ पार्थि॑वाँ॒ एको॒ वसू॑नि॒ पत्य॑ते ।
गिर्व॑णस्तमो॒ अध्रि॑गुः ॥

पदपाठः

सः । हि । विश्वा॑नि । पार्थि॑वा । एकः॑ । वसू॑नि । पत्य॑ते ।
गिर्व॑णःऽतमः । अध्रि॑ऽगुः ॥

सायणभाष्यम्

सहि सखल्विन्द्रः विश्वानिसर्वाणिपार्थिवा पृथिव्यांभवानि वसूनिधनानिएकएवपत्यते ईष्टे नान्यःकश्चित् पत्यतिरैश्वर्यकर्मा कीदृश- इन्द्रः गिर्वणस्तमः अतिशयेनगीर्भिः स्तुतिभिः संभजनीयः अध्रिगुरधृतगमनः अप्रतिहतगतिरित्यर्थः ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४