मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४५, ऋक् २१

संहिता

स नो॑ नि॒युद्भि॒रा पृ॑ण॒ कामं॒ वाजे॑भिर॒श्विभि॑ः ।
गोम॑द्भिर्गोपते धृ॒षत् ॥

पदपाठः

सः । नः॒ । नि॒युत्ऽभिः॑ । आ । पृ॒ण॒ । काम॑म् । वाजे॑भिः । अ॒श्विऽभिः॑ ।
गोम॑त्ऽभिः । गो॒ऽप॒ते॒ । धृ॒षत् ॥

सायणभाष्यम्

हेगोपते गवां पालयितः सत्वंनोस्माकंकामंनियुद्भिर्वडवाभिः धृषत् धृष्टंदारिद्भ्यनाशनसमर्थंयथाभवतितथाआपृणापूरय यद्वा धृष- दितीन्द्रविशेषणं शत्रूणांधर्षकस्त्वमित्यर्थः तथागोमद्भिर्बहुभिर्गोभिर्युक्तैः अश्विभिः बहुभिरश्वैरुपेतैर्वाजैरन्नैश्च अस्मदीयंकाममापूरय ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५