मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४५, ऋक् २२

संहिता

तद्वो॑ गाय सु॒ते सचा॑ पुरुहू॒ताय॒ सत्व॑ने ।
शं यद्गवे॒ न शा॒किने॑ ॥

पदपाठः

तत् । वः॒ । गा॒य॒ । सु॒ते । सचा॑ । पु॒रु॒ऽहू॒ताय॑ । सत्व॑ने ।
शम् । यत् । गवे॑ । न । शा॒किने॑ ॥

सायणभाष्यम्

हेस्तोतारोवोयूयंसुतेअभिषुतेसोमेसति पुरुहूतायबहुभिर्यजमानैराहूताय सत्वने शत्रूणांसादयित्रे धनानांवासनित्रेदात्रेइन्द्राय तत् – स्तोत्रंसचा सह संहताभूत्वा गायगायत यत् स्तोत्रं शाकिनेशक्तिमतेइन्द्राय शंसुखकरंभवति गवेनयथागवेयवसंसुखकरं भवति तद्वदित्य- र्थः ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५