मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४५, ऋक् २३

संहिता

न घा॒ वसु॒र्नि य॑मते दा॒नं वाज॑स्य॒ गोम॑तः ।
यत्सी॒मुप॒ श्रव॒द्गिरः॑ ॥

पदपाठः

न । घ॒ । वसुः॑ । नि । य॒म॒ते॒ । दा॒नम् । वाज॑स्य । गोऽम॑तः ।
यत् । सी॒म् । उप॑ । श्रव॑त् । गिरः॑ ॥

सायणभाष्यम्

वसुर्वासयितासइन्द्रः गोमतोबहुभिर्गोभिर्युक्तस्यवाजस्यान्नस्यबलस्यवा दानंप्रदानं नघनखलु नियमते नियच्छति उपरतंकरोति यद्यदि सींसर्वतः गिरः अस्मदीयाःस्तुतीः उपश्रवत् उपश्रृणुयात् स्तोत्रश्रवणेसति सर्वदाददातीत्यर्थः ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५