मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४५, ऋक् २४

संहिता

कु॒वित्स॑स्य॒ प्र हि व्र॒जं गोम॑न्तं दस्यु॒हा गम॑त् ।
शची॑भि॒रप॑ नो वरत् ॥

पदपाठः

कु॒वित्ऽस॑स्य । प्र । हि । व्र॒जम् । गोऽम॑न्तम् । द॒स्यु॒ऽहा । गम॑त् ।
शची॑भिः । अप॑ । नः॒ । व॒र॒त् ॥

सायणभाष्यम्

कुवित्सस्य कुविद्बहुशः स्यतिहिनस्तीतिकुवित्सोनामकश्चित् तस्यस्वभूतं गोमंतं बहुभिर्गोभिर्युक्तं व्रजंगोष्ठं दस्युहादस्यूनामुपक्षपयि- तॄणांहन्तेन्द्रः प्रगमत् प्रकर्षेणगच्छति हियस्मादेवंतस्मात् शचीभिरात्मीयैः कर्मभिः प्रज्ञाभिर्वा नोस्माकंतागाः अपवरत् निगूढास्ताअपा- वृणोत् ॥ २४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५