मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४५, ऋक् २५

संहिता

इ॒मा उ॑ त्वा शतक्रतो॒ऽभि प्र णो॑नुवु॒र्गिरः॑ ।
इन्द्र॑ व॒त्सं न मा॒तरः॑ ॥

पदपाठः

इ॒माः । ऊं॒ इति॑ । त्वा॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । अ॒भि । प्र । नो॒नु॒वुः॒ । गिरः॑ ।
इन्द्र॑ । व॒त्सम् । न । मा॒तरः॑ ॥

सायणभाष्यम्

हेशतक्रतो बहुविधकर्मन् बहुविधप्रज्ञवेन्द्र त्वात्वामभिइमाअस्मदीयागिरः स्तुतयः प्रणोनुवुः प्रकर्षेणपुनःपुनर्गच्छन्ति नौतिरत्रगति- कर्मा तत्रदृष्टान्तः—वत्संनमातरः यथामातरोगावोगृहेवर्तमानंवत्संशीघ्रमभिगच्छन्तितद्वत् यद्वास्मदीयावाचस्त्वां अभिनोनुवुः अभितः- शब्दयन्ति स्तुवन्ति यथागावोवत्समभिलक्ष्यहंभारवंकुर्वन्तितद्वत् ॥ २५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५