मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४५, ऋक् २६

संहिता

दू॒णाशं॑ स॒ख्यं तव॒ गौर॑सि वीर गव्य॒ते ।
अश्वो॑ अश्वाय॒ते भ॑व ॥

पदपाठः

दुः॒ऽनश॑म् । स॒ख्यम् । तव॑ । गौः । अ॒सि॒ । वी॒र॒ । ग॒व्य॒ते ।
अश्वः॑ । अ॒श्व॒ऽय॒ते । भ॒व॒ ॥

सायणभाष्यम्

हेइन्द्र तवत्वदीयंसख्यंसखित्वं दूणाशं दुर्नाशं नाशयितुमशक्यं अतिदृढमित्यर्थः अतोहेवीर वीरयितरिन्द्र गव्यतेगामात्मनइच्छतेत्वं- गौरसि गवांप्रदाताभवसि उपचारात्कारणेकार्यशब्दः तथाअश्वायतेअश्वानात्मनइच्छतेअश्वोभव अश्वप्रदोभवसि ॥ २६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६