मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४५, ऋक् २७

संहिता

स म॑न्दस्वा॒ ह्यन्ध॑सो॒ राध॑से त॒न्वा॑ म॒हे ।
न स्तो॒तारं॑ नि॒दे क॑रः ॥

पदपाठः

सः । म॒न्द॒स्व॒ । हि । अन्ध॑सः । राध॑से । त॒न्वा॑ । म॒हे ।
न । स्तो॒तार॑म् । नि॒दे । क॒रः॒ ॥

सायणभाष्यम्

हेइन्द्र सतादृशस्त्वं अन्धसः सोमस्यपानेनहृष्टया तन्वाआत्मीयेनशरीरेणमन्दस्त्र मोदस्व किमर्थं महेमहते राधसेधनार्थं हिपूरणः अपिच त्वदीयंस्तोतारंनिदेनिंदकायतस्यवशंनकरः नकुर्याः ॥ २७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६