मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४५, ऋक् २८

संहिता

इ॒मा उ॑ त्वा सु॒तेसु॑ते॒ नक्ष॑न्ते गिर्वणो॒ गिरः॑ ।
व॒त्सं गावो॒ न धे॒नवः॑ ॥

पदपाठः

इ॒माः । ऊं॒ इति॑ । त्वा॒ । सु॒तेऽसु॑ते । नक्ष॑न्ते । गि॒र्व॒णः॒ । गिरः॑ ।
व॒त्सम् । गावः॑ । न । धे॒नवः॑ ॥

सायणभाष्यम्

हेगिर्वणोगीर्भिर्वननीयेन्द्र सुतेसुतेसोमेभिषुतेभिषुतेसति इमाअस्मदीयागिरःस्तुतयःत्वा त्वांनक्षन्ते व्याप्नुवन्ति धेनवोदोग्ध्र्यः गावोन गावइव वत्सं तायथाशीघ्रंवत्संव्याप्नुवन्तितद्वत् उपरणः ॥ २८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६