मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४५, ऋक् २९

संहिता

पु॒रू॒तमं॑ पुरू॒णां स्तो॑तॄ॒णां विवा॑चि ।
वाजे॑भिर्वाजय॒ताम् ॥

पदपाठः

पु॒रु॒ऽतम॑म् । पु॒रू॒णाम् । स्तो॒तॄ॒णाम् । विऽवा॑चि ।
वाजे॑भिः । वा॒ज॒ऽय॒ताम् ॥

सायणभाष्यम्

हेइन्द्र पुरुतमंपुरूणांबहूनांशत्रूणांतमयितारंग्लपयितारंत्वां पुरूणांबहूनांस्तोतॄणांअस्माकंस्तुतिः प्राप्नोत्वितिशेषः कीदृशानां विवा- चिविविधाः स्तुतशस्त्रात्मिकावाचःयस्मिन्यज्ञेतस्मिन् वाजेभिर्वाजैर्हविर्लक्षणैरन्नैर्वाजयतांवाजवन्तंवेगवन्तंबलवन्तंवात्वांकुर्वताम् ॥ २९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६