मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४५, ऋक् ३२

संहिता

यस्य॑ वा॒योरि॑व द्र॒वद्भ॒द्रा रा॒तिः स॑ह॒स्रिणी॑ ।
स॒द्यो दा॒नाय॒ मंह॑ते ॥

पदपाठः

यस्य॑ । वा॒योःऽइ॑व । द्र॒वत् । भ॒द्रा । रा॒तिः । स॒ह॒स्रिणी॑ ।
स॒द्यः । दा॒नाय॑ । मंह॑ते ॥

सायणभाष्यम्

वायोरिवद्रवत् क्षिप्रगामिनोयस्यबृबोः भद्राकल्यानी सहस्रिणीसहास्रसंख्यायुक्ता रातिर्दानंसद्यःस्तुतिसमयेएवदानायदानकामाय- याचमानाय मह्यंमंहतेअपेक्षितं धनंददाति तंबृबुमितिउत्तरस्यामृचिसंबन्धः ॥ ३२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६