तत्सु नो॒ विश्वे॑ अ॒र्य आ सदा॑ गृणन्ति का॒रवः॑ ।
बृ॒बुं स॑हस्र॒दात॑मं सू॒रिं स॑हस्र॒सात॑मम् ॥
तत् । सु । नः॒ । विश्वे॑ । अ॒र्यः । आ । सदा॑ । गृ॒ण॒न्ति॒ । का॒रवः॑ ।
बृ॒बुम् । स॒ह॒स्र॒ऽदात॑मम् । सू॒रिम् । स॒ह॒स्र॒ऽसात॑मम् ॥
तत् तंबृबुंनोस्मदीयाः विश्वेसर्वेअर्यःस्तुतीनामीरयितारःकारवः स्तोतारः सुसुष्ठुआगृणन्ति अभिगृणन्ति अभिष्टुवन्ति कीदृशं सहस्र- दातमंअतिशयेनसहस्रसंख्यस्यधनस्यदातारं सूरिंप्राज्ञं यद्वा प्रेरयितारंसहस्रसातमं अतिशयेनसहस्रसंख्यस्यस्तोत्रस्यधनस्यवासंभक्तारं ॥ ३३ ॥
त्वामिद्धीतिचतुर्दशर्चंतृतीयंसुक्तं बृहस्पतिपुत्रस्यशंयोरार्षमैन्द्रं प्रथमातृतीयाद्याअयुजोबृहत्यः द्वितीयाचतुर्थ्याद्यायुजः सतोबृहत्यः तथाचानुक्रान्तं—त्वामिद्धिषळूनाप्रागाथमिति । सूक्तविनियोगोलैंगिकः यदिज्योतिष्टोमोबृहत्पृष्ठः स्यात् तदानींनिष्केवल्यस्यआद्यः प्र- गाथः स्तोत्रियः सूत्रितंच—यद्युवैबृहत् त्वामिद्धिहवामहइति । महाव्रतेपिनिश्केवल्येअयंप्रगाथः शंसनीयः तथैवपंचमारण्यकेसूत्रितं- त्वामिद्धिहवामहेत्वंह्येहिचेरवइति बृहतस्तोत्रियानुरूपाविति ।