मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४६, ऋक् १

संहिता

त्वामिद्धि हवा॑महे सा॒ता वाज॑स्य का॒रवः॑ ।
त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व॑तः ॥

पदपाठः

त्वाम् । इत् । हि । हवा॑महे । सा॒ता । वाज॑स्य । का॒रवः॑ ।
त्वाम् । वृ॒त्रेषु॑ । इ॒न्द्र॒ । सत्ऽप॑तिम् । नरः॑ । त्वाम् । काष्ठा॑सु । अर्व॑तः ॥

सायणभाष्यम्

कारवःस्तोतारोवयं वाजस्यान्नस्यसातासातौसंभजनेनिमित्तभूतेसति हेइन्द्र त्वामिद्धि त्वामेव हवामहे स्तुतिभिराह्वयामः हेइन्द्र सत्पतिं सतांपालयितारं श्रेष्ठंत्वांनरः अन्येपिमनुष्याः वृत्रेष्वावरकेषुशत्रुषुसत्सुहवंते आह्वयन्ति तज्जयार्थं अपिच अर्वतोश्वस्यसंबन्धि- नीषुकाष्ठासुयत्राश्वःकान्त्वातिष्ठति तासुकाष्ठासुसंग्रामेषुयुद्धकामाश्चत्वामेवाह्वयन्ति अतोवयंत्वामेवाह्वयामइत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७