मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४६, ऋक् २

संहिता

स त्वं न॑श्चित्र वज्रहस्त धृष्णु॒या म॒हः स्त॑वा॒नो अ॑द्रिवः ।
गामश्वं॑ र॒थ्य॑मिन्द्र॒ सं कि॑र स॒त्रा वाजं॒ न जि॒ग्युषे॑ ॥

पदपाठः

सः । त्वम् । नः॒ । चि॒त्र॒ । व॒ज्र॒ऽह॒स्त॒ । धृ॒ष्णु॒ऽया । म॒हः । स्त॒वा॒नः । अ॒द्रि॒ऽवः॒ ।
गाम् । अश्व॑म् । र॒थ्य॑म् । इ॒न्द्र॒ । सम् । कि॒र॒ । स॒त्रा । वाज॑म् । न । जि॒ग्युषे॑ ॥

सायणभाष्यम्

हेचित्र चायनीय वज्रहस्त वज्रबाहो अद्रिवः वज्रवन् यद्वा आदृणात्यनेनेत्यद्रिरशनिः तद्वन् एवंभूतइन्द्र धृष्णुयाधृष्णुः शत्रूणांधर्षयि- ता महोमहान् सतादृशस्त्वं स्तवानोस्माभिः स्तूयमानः सन् गांरथ्यंरथवाहनमश्वंचसंकिर सम्यक् प्रयच्छ जिग्युषे जितवते पुरुषाय भो- गार्थं प्तत्रामहत्प्रभूतं वाजंन अन्नमिव यथाशत्रून् जितवतेभोगारर्थंबह्वन्नंप्रयच्छसितद्वत् ॥ २ ॥ महाव्रतेनिष्केवल्येयः सत्राहेत्यादिसूक्तशेषः शंसनीयः सूत्र्यतेहि—यःसत्राहाविचर्षणिरितिशेषोऽयंतेअस्तुहर्यतइतिसूक्तेइति । चातु- र्विंशिकेहनिमाध्यंदिनसवनेयः सत्राहेतिप्रगाथोवैकल्पिकोनुरूपः सूत्रितंच—यःसत्राहाविचर्षणिःस्वादोरित्थाविषूवतइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७