मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४६, ऋक् ३

संहिता

यः स॑त्रा॒हा विच॑र्षणि॒रिन्द्रं॒ तं हू॑महे व॒यम् ।
सह॑स्रमुष्क॒ तुवि॑नृम्ण॒ सत्प॑ते॒ भवा॑ स॒मत्सु॑ नो वृ॒धे ॥

पदपाठः

यः । स॒त्रा॒ऽहा । विऽच॑र्षणिः । इन्द्र॑म् । तम् । हू॒म॒हे॒ । व॒यम् ।
सह॑स्रऽमुष्क । तुवि॑ऽनृम्ण । सत्ऽप॑ते । भव॑ । स॒मत्ऽसु॑ । नः॒ । वृ॒धे ॥

सायणभाष्यम्

यः इन्द्रःसत्राहा महतांशत्रूणांहन्ता विचर्षणिर्विशेषेणसर्वस्यद्रष्टा तमिन्द्रंवयंहूमहे स्तुतिपदेराह्वयामः उत्तरार्धःप्रत्यक्षकृतः हेसहस्र- मुष्क सहस्रशेफ यांकांचस्त्रियंसंभवन्निन्द्रः भोगलोलुपतया स्वशरीरेपर्वणिपर्वणिशेफान् ससर्जेतिकौषीतकिभिराम्नातं तदभिप्रायेणेदंसं- बोधनं हेतुविनृम्ण बहुधन सत्पते सतांपालयितरिन्द्र समत्सुसंग्रामेषु नोस्माकंवृधेवर्धनायभव ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७