मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४६, ऋक् ४

संहिता

बाध॑से॒ जना॑न्वृष॒भेव॑ म॒न्युना॒ घृषौ॑ मी॒ळ्ह ऋ॑चीषम ।
अ॒स्माकं॑ बोध्यवि॒ता म॑हाध॒ने त॒नूष्व॒प्सु सूर्ये॑ ॥

पदपाठः

बाध॑से । जना॑न् । वृ॒ष॒भाऽइ॑व । म॒न्युना॑ । घृषौ॑ । मी॒ळ्हे । ऋ॒ची॒ष॒म॒ ।
अ॒स्माक॑म् । बो॒धि॒ । अ॒वि॒ता । म॒हा॒ऽध॒ने । त॒नूषु॑ । अ॒प्ऽसु । सूर्ये॑ ॥

सायणभाष्यम्

हेऋचीषम ऋचासम ऋक्यादृशंरूपंप्रतिपादयतितादृग्रूपेन्द्र घृषौशत्रूणांघर्षकेबाधकेमीह्ळेसंग्रामेजनान् अस्मदीयान् शत्रून् वृषभेव वृषभेणेव बलवतामन्युनाक्रोधेनबाधसे बाधस्व तथा महाधने महतोधनस्यनिमित्तभूतेसंग्रामेच अस्माकमतितारक्षिताबोधि बुध्यस्व रक्षितृत्वेनात्मानंजानीहि रक्षकोभवेतियावत् किमर्थं तनूषुतनयेषुअप्सूदकेषुसूर्येचलब्धव्येषुसत्सु एतेषांलाभार्थंसूर्यस्यलाभसंदर्शनंतदर्थ- मित्यर्थः ॥ ४ ॥ चातुर्विंशिकेहनिमाध्यंदिनसवनेब्राह्मणाच्छंसिनःइन्द्रज्येष्ठंनआभरेतिप्रगाथोवैकल्पिकोनुरूपः सूत्रितंच—इन्द्रज्येष्ठंनआभरात्वासह- स्रमाशतमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७