मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४६, ऋक् ५

संहिता

इन्द्र॒ ज्येष्ठं॑ न॒ आ भ॑रँ॒ ओजि॑ष्ठं॒ पपु॑रि॒ श्रवः॑ ।
येने॒मे चि॑त्र वज्रहस्त॒ रोद॑सी॒ ओभे सु॑शिप्र॒ प्राः ॥

पदपाठः

इन्द्र॑ । ज्येष्ठ॑म् । नः॒ । आ । भ॒र॒ । ओजि॑ष्ठम् । पपु॑रि । श्रवः॑ ।
येन॑ । इ॒मे इति॑ । चि॒त्र॒ । व॒ज्र॒ऽह॒स्त॒ । रोद॑सी॒ इति॑ । आ । उ॒भे इति॑ । सु॒शि॒प्र॒ । प्राः ॥

सायणभाष्यम्

हेइन्द्र ज्येष्ठंप्रशस्यतमं ओजिष्ठंओजस्वितमं अतिशयेनबलकरं पपुरिपूरकंश्रवोन्नंनोस्मभ्यंआभर आहर प्रयच्छ हेचित्र चायनीय वज्रहस्त वज्रबाहो हेसुशिप्र शोभनहनुक एवंभूत हेइन्द्र येनान्नेनइमेपरिदृश्यमानेउभेरोदसीद्यावापृथिव्यौआप्राः आपूरयसि तदन्न- माभरेत्यन्वयः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७