मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४६, ऋक् ६

संहिता

त्वामु॒ग्रमव॑से चर्षणी॒सहं॒ राज॑न्दे॒वेषु॑ हूमहे ।
विश्वा॒ सु नो॑ विथु॒रा पि॑ब्द॒ना व॑सो॒ऽमित्रा॑न्त्सु॒षहा॑न्कृधि ॥

पदपाठः

त्वाम् । उ॒ग्रम् । अव॑से । च॒र्ष॒णि॒ऽसह॑म् । राज॑न् । दे॒वेषु॑ । हू॒म॒हे॒ ।
विश्वा॑ । सु । नः॒ । वि॒थु॒रा । पि॒ब्द॒ना । व॒सो॒ इति॑ । अ॒मित्रा॑न् । सु॒ऽसहा॑न् । कृ॒धि॒ ॥

सायणभाष्यम्

हेराजन् राजमानेन्द्र देवेषुदेवानांमध्ये उग्रमुद्गूर्णबलं चर्षणीसहं चर्षणीनांशत्रुभूतानां प्रजानामभिभवितारंत्वां अवसेरक्षणाय हूमहे आह्वयामः त्वंविश्वा सर्वाणि पिब्दना पिब्दनानि रक्षांसि पिहितं अव्यक्तंशब्दयन्तइतिपिब्दनानि पृषोदरादिः तानि सु सुष्ठु विथुरा व्ययितानि बाधितानि कुरु हेवसो वासकेन्द्र नोस्मदीयानमित्रान् शत्रूंश्च सुषहान् सुखेनाभिभवितुंशक्यान् कृधि कुरु ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८