मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४६, ऋक् ७

संहिता

यदि॑न्द्र॒ नाहु॑षी॒ष्वाँ ओजो॑ नृ॒म्णं च॑ कृ॒ष्टिषु॑ ।
यद्वा॒ पञ्च॑ क्षिती॒नां द्यु॒म्नमा भ॑र स॒त्रा विश्वा॑नि॒ पौंस्या॑ ॥

पदपाठः

यत् । इ॒न्द्र॒ । नाहु॑षीषु । आ । ओजः॑ । नृ॒म्णम् । च॒ । कृ॒ष्टिषु॑ ।
यत् । वा॒ । पञ्च॑ । क्षि॒ती॒नाम् । द्यु॒म्नम् । आ । भ॒र॒ । स॒त्रा । विश्वा॑नि । पौंस्या॑ ॥

सायणभाष्यम्

हेइन्द्र नाहुषीषु नहुषइतिमनुष्यनाम तत्संबन्धिनीषुकृष्टिषुप्रजासु आकारः समुच्चये यच्चओजोबलंनृम्णंधनंचविद्यते यद्वा यच्चपंचपं- चानांक्षितीनां निषादपंचमाश्चत्वारोवर्णाःपंचक्षितयः तेषांस्वरूपं द्युम्नंद्योतमानमन्नं तत्सर्वमस्मभ्यंआभराहर प्रयच्छ तथासत्रामहा- न्तिविश्वानिसर्वाणिपौंस्यानिबलानिचास्मभ्यंआहर ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८