मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४६, ऋक् ८

संहिता

यद्वा॑ तृ॒क्षौ म॑घवन्द्रु॒ह्यावा जने॒ यत्पू॒रौ कच्च॒ वृष्ण्य॑म् ।
अ॒स्मभ्यं॒ तद्रि॑रीहि॒ सं नृ॒षाह्ये॒ऽमित्रा॑न्पृ॒त्सु तु॒र्वणे॑ ॥

पदपाठः

यत् । वा॒ । तृ॒क्षौ । म॒घ॒ऽव॒न् । द्रु॒ह्यौ । आ । जने॑ । यत् । पू॒रौ । कत् । च॒ । वृष्ण्य॑म् ।
अ॒स्मभ्य॑म् । तत् । रि॒री॒हि॒ । सम् । नृ॒ऽसह्ये॑ । अ॒मित्रा॑न् । पृ॒त्ऽसु । तु॒र्वणे॑ ॥

सायणभाष्यम्

हेमघवन् धनवन्निन्द्र तृक्षौएतत्संज्ञेराजनि यद्वा यच्चबलंविद्यतेद्रुह्यावाद्रुह्यौच एतत्संज्ञेचजनेयद्बलमस्ति पूरौएतत्संज्ञेनृपेचयत्कच्च- यत्किंचनवृष्ण्यंवीर्यंविद्यते तत्सर्वमस्मभ्यंस्तोतृभ्यः सम्यग्रिरीहि प्रयच्छ कदा नृषह्येनृभिर्योद्धृभिःसोढव्येयुद्धेप्रवृत्ते किमर्थं पृत्सुपृत- नासुसंग्रामेषु अमित्रान् शत्रून् तुर्वणेतुर्वितुंहिंसितुं ॥ ८ ॥ चातुर्विंशिकेहनिनिष्केवल्येइन्द्रत्रिधात्विसिवैरूपस्यसामप्रगाथःशंसनीयः सूत्रितंच—इन्द्रत्रिधातुशरणंत्वमिन्द्रपतूर्तिष्विति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८