मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४६, ऋक् ९

संहिता

इन्द्र॑ त्रि॒धातु॑ शर॒णं त्रि॒वरू॑थं स्वस्ति॒मत् ।
छ॒र्दिर्य॑च्छ म॒घव॑द्भ्यश्च॒ मह्यं॑ च या॒वया॑ दि॒द्युमे॑भ्यः ॥

पदपाठः

इन्द्र॑ । त्रि॒ऽधातु॑ । श॒र॒णम् । त्रि॒ऽवरू॑थम् । स्व॒स्ति॒ऽमत् ।
छ॒र्दिः । य॒च्छ॒ । म॒घव॑त्ऽभ्यः । च॒ । मह्य॑म् । च॒ । य॒वय॑ । दि॒द्युम् । ए॒भ्यः॒ ॥

सायणभाष्यम्

हेइन्द्र त्रिधातु त्रिप्रकारंत्रिभूमिकंत्रिवरूथंत्रयाणांशीतातपवर्षाणांवारकंस्वस्तिमत् अविनाशयुक्तं छर्दिःछदिष्मत् आच्छादनयुक्तं एवंगुणविशिष्टंशरणंगृहंमघवद्भ्यश्चमघंहविर्लक्षणंधनंतद्वद्भ्यश्चास्मदीयेभ्यः मह्यंभरद्वाजायचयच्छ देहि अपिचएभ्यःसकाशात् दिद्युं शत्रुप्रेरितं प्रद्योतमानमायुधंयवय पृथक्कुरु ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८