मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४६, ऋक् १३

संहिता

यदि॑न्द्र॒ सर्गे॒ अर्व॑तश्चो॒दया॑से महाध॒ने ।
अ॒स॒म॒ने अध्व॑नि वृजि॒ने प॒थि श्ये॒नाँ इ॑व श्रवस्य॒तः ॥

पदपाठः

यत् । इ॒न्द्र॒ । सर्गे॑ । अर्व॑तः । चो॒दया॑से । म॒हा॒ऽध॒ने ।
अ॒स॒म॒ने । अध्व॑नि । वृ॒जि॒ने । प॒थि । श्ये॒नान्ऽइ॑व । श्र॒व॒स्य॒तः ॥

सायणभाष्यम्

हेइन्द्र महाधनेजेतव्यस्यमहतोधनस्यनिमित्तेमहतिसंग्रामेसर्गेउद्योगेसति असमनेविषमे अध्वनिमार्गेअर्वतोस्मदीयानश्वान् यद्यदा- चोदयासे प्रेरयसि वृजिनेकुटिलेपथिमार्गेअन्तरिक्षलक्षणेश्रवस्यतः श्रवः अन्नमामिषरूपंआत्मनइच्छतः श्येनान् इवयथाआमिषार्थिनः श्येनाः अन्तरिक्षेशीघ्रंगच्छन्ति तथास्मदीयानश्वान् यदात्वंशीघ्रंगमयसि तदानीमस्माकंतन्वेतनयायच छर्दिर्यच्छेतिपूर्वस्यामृचिसंबन्धः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९