मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४६, ऋक् १४

संहिता

सिन्धूँ॑रिव प्रव॒ण आ॑शु॒या य॒तो यदि॒ क्लोश॒मनु॒ ष्वणि॑ ।
आ ये वयो॒ न वर्वृ॑त॒त्यामि॑षि गृभी॒ता बा॒ह्वोर्गवि॑ ॥

पदपाठः

सिन्धू॑न्ऽइव । प्र॒व॒णे । आ॒शु॒ऽया । य॒तः । यदि॑ । क्लोश॑म् । अनु॑ । स्वनि॑ ।
आ । ये । वयः॑ । न । वर्वृ॑तति । आमि॑षि । गृ॒भी॒ताः । बा॒ह्वोः । गवि॑ ॥

सायणभाष्यम्

उक्तस्यैवार्थस्यअतिशयप्रतिपादनार्थेयं प्रवणेनिम्नदेशेसिन्धूनिव स्यन्दमानानदीरिव आशुयाआशुशीघ्रंयतोगच्छतोश्वान् हेइन्द्र यदि- चोदयासे प्रेरयसि कदाक्लोशमनुक्लोशमिति भयनाम भयमनुलक्ष्यस्वनिस्वनेआक्रोशेसति कीदृशास्तेश्वाः बाह्वोर्बाहुमूलयोर्गृभीताः कक्ष्ययाबद्धायेअश्वाः गविगोरूपेधनेजेतव्येसति आवर्वृतति पुनःपुनरावर्तन्ते आमिषिआमिषे मांसे ग्रहीतव्ये सति वयोन यथाश्येनादयः पक्षिणःपुनःपुनरावर्तंतेतद्वत् एवंभूतानश्वान् भयेनक्रोशेसतियदात्वंप्रेस्यसि तदानीमस्मदीयेभ्यः छर्दिः प्रयच्छेतिसंबन्धः यद्यपिऋषेर्यु- द्धेप्रसक्तिर्नास्तितथापिराजपुरोहितत्वेनराजकीयानां पुरुषाणांजयःप्रार्थ्यतइतिनकश्चिद्विरोधः ॥ १४ ॥

स्वादुरितिएकत्रिंशदृचंचतुर्थंसूक्तंभरद्वाजपुत्रस्यगर्गस्यार्षं प्रस्तोकइन्वित्येषात्रिष्टुप् दशाश्वानित्यनुष्टुप् दशरथानितिगायत्री महिरा- धइतिद्विपदाव्द्येकादशका युजानोहरितइत्येषाबृहतो दिवस्पृथिव्याइतिजगती शिष्टास्त्रिष्टुभः आदितः पंचानांसोमोदेवता अगव्यूतिक्षे- त्रमित्यर्धर्चप्रथमपादेदेवाउत्तरस्यभूमिः तृतीयस्यबृहस्पतिः चतुर्थस्यैन्द्रः प्रस्तोकइत्याद्याश्चतस्रः सृंजयपुत्रस्य राज्ञोदानस्तुतिरूपत्वात्- तद्देवताकाः वनस्पतेवीड्ढंगइत्ययंतृचोरथदेवत्यः उपश्वासयेतितृचोदुंदुभिदेवत्यः समश्वपर्णाइत्यर्धर्चऎन्द्रः शिष्टाइन्द्रदेवताकाः तथाचानु- क्रान्तं –स्वादुरेकत्रिंसद्गर्गःपंचादौसौम्योगव्यूत्यर्धर्चोलिंगोक्तदेवतः प्रस्तोकइतित्रिष्टुबनुष्टुप् गायत्रीद्विपदासार्ञ्चयस्यप्रस्तोकस्य दानस्तु- तिः परौतृचौरथदुंदुभिदेवत्यावैन्द्रोन्त्योर्धर्चोयुजानोबृहतीदिवस्पृथिव्याजगतीति । आग्निमारुतेआदितश्चतस्रः शंसनीयाः सूत्रित्रंच— स्वादुष्किलायमितिचतस्रोमध्येचाह्वानमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९