मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४७, ऋक् १

संहिता

स्वा॒दुष्किला॒यं मधु॑माँ उ॒तायं ती॒व्रः किला॒यं रस॑वाँ उ॒तायम् ।
उ॒तो न्व१॒॑स्य प॑पि॒वांस॒मिन्द्रं॒ न कश्च॒न स॑हत आह॒वेषु॑ ॥

पदपाठः

स्वा॒दुः । किल॑ । अ॒यम् । मधु॑ऽमान् । उ॒त । अ॒यम् । ती॒व्रः । किल॑ । अ॒यम् । रस॑ऽवान् । उ॒त । अ॒यम् ।
उ॒तो इति॑ । नु । अ॒स्य । प॒पि॒ऽवांस॑म् । इन्द्र॑म् । न । कः । च॒न । स॒ह॒ते॒ । आ॒ऽह॒वेषु॑ ॥

सायणभाष्यम्

अयंअभिषुतः सोमः स्वादुरास्वादनीयःकिलभवति उतापिच मधुमान् माधुर्यवांश्चायंसोमोभवति तथायंसोमः तीव्रः किल् मदोत्पा- दनेतीक्षणःखलुभवति उतापिच अयंसोमोरसवान् सारवांश्चभवति अनेनवाक्यचतुष्टयेनसोमस्यमाधुर्यातिशयत्वंचप्रतिपादितं उतोअपि- च अस्यसोमस्य द्वितीयार्थेषष्ठी इमंसोमंपपिवांसंपीतवन्तमिन्द्रं आहवेषुसंग्रामेषुनकश्चननकोपिसहते अभिभवति नुइतिपूरकः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०