मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४७, ऋक् ४

संहिता

अ॒यं स यो व॑रि॒माणं॑ पृथि॒व्या व॒र्ष्माणं॑ दि॒वो अकृ॑णोद॒यं सः ।
अ॒यं पी॒यूषं॑ ति॒सृषु॑ प्र॒वत्सु॒ सोमो॑ दाधारो॒र्व१॒॑न्तरि॑क्षम् ॥

पदपाठः

अ॒यम् । सः । यः । व॒रि॒माण॑म् । पृ॒थि॒व्याः । व॒र्ष्माण॑म् । दि॒वः । अकृ॑णोत् । अ॒यम् । सः ।
अ॒यम् । पी॒यूष॑म् । ति॒सृषु॑ । प्र॒वत्ऽसु॑ । सोमः॑ । दा॒धा॒र॒ । उ॒रु । अ॒न्तरि॑क्षम् ॥

सायणभाष्यम्

सखल्वयंसोमः यःपृथिव्यावरिमाणं उरुत्वंविस्तृतत्वंअकृणोत् अकरोत् तथायंसोमोदिवोद्युलोकस्यवर्ष्माणं संहतत्वंदृढत्वंअकृणोदक- रोत्अयंसोमः सहिभवति अपिचायंसोमः तिसृष्वोषधीषुअप्सुगोषुचप्रवत्सुप्रकृष्टास्वेतासुपीयूषंरसंदाधार धारयति तथाउरुविस्तीर्णम- न्तरिक्षं चधारयति तथाचमंत्रान्तरं—त्वमिमाओषधीः सोमविश्वास्त्वमपोअजनयस्त्वंगाः । त्वमाततंथोर्वं १ तरिक्षमिति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०