मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४७, ऋक् ७

संहिता

इन्द्र॒ प्र णः॑ पुरए॒तेव॑ पश्य॒ प्र नो॑ नय प्रत॒रं वस्यो॒ अच्छ॑ ।
भवा॑ सुपा॒रो अ॑तिपार॒यो नो॒ भवा॒ सुनी॑तिरु॒त वा॒मनी॑तिः ॥

पदपाठः

इन्द्र॑ । प्र । नः॒ । पु॒र॒ए॒ताऽइ॑व । पश्य॑ । प्र । नः॒ । न॒य॒ । प्र॒ऽत॒रम् । वस्यः॑ । अच्छ॑ ।
भव॑ । सु॒ऽपा॒रः । अ॒ति॒ऽपा॒र॒यः । नः॒ । भव॑ । सुऽनी॑तिः । उ॒त । वा॒मऽनी॑तिः ॥

सायणभाष्यम्

हेइन्द्र त्वंपुरएतेव पुरतोगंतेव नोस्मान् प्रपश्य प्रकर्षेणईक्षस्व यथामार्गरक्षकः स्वयंपुरतोगच्छन् अनुगच्छतोरक्षणीयान् पथिकान् प- श्यति तथापश्येत्यर्थः तथावस्योवसीयः श्रेष्ठंधनंअच्छाभिमुख्येनप्रतरं प्रकृष्टतरंअतिशयेनप्रणयअस्मान् प्रापय तथासुपारः सुष्ठुपारयिता दुःखेभ्यस्तारयिताभव तथानोस्मान् स्तोतॄन् अतिपारयः शत्रूनतिक्रामय सुनीतिःशोभननयनश्चास्माकंभव उतापिच वामनीतिः वामा- नांवननीयानांधनानांनेताभव यद्वास्मदर्थंश्रेष्ठप्रापणोभव ॥ ७ ॥ ऎन्द्रेपशौउरुंनइत्येषावपायायाज्या सूत्रितंच—उरुंनोलोकमनुनेषिविद्वान् प्रससाहिषेपुरुहूतशत्रूनिति । होत्रकैः सदः प्रसर्पणसमये- प्येषाजप्या सूत्रितंच—उरुंनोलोकमनुनेषिविद्वानितिजपंतइति । चातुर्विंशिकेहन्यहर्गणेषुचद्वितीयादिष्वहःसुमाध्यंदिनसवनेच्छावाक- स्यैषाचारंभणीया सूत्रितंच—उरुंनोलोकमनुनेषिविद्वानितिकद्वद्भ्यआरंभणीयाइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१