मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४७, ऋक् ८

संहिता

उ॒रुं नो॑ लो॒कमनु॑ नेषि वि॒द्वान्त्स्व॑र्व॒ज्ज्योति॒रभ॑यं स्व॒स्ति ।
ऋ॒ष्वा त॑ इन्द्र॒ स्थवि॑रस्य बा॒हू उप॑ स्थेयाम शर॒णा बृ॒हन्ता॑ ॥

पदपाठः

उ॒रुम् । नः॒ । लो॒कम् । अनु॑ । ने॒षि॒ । वि॒द्वान् । स्व॑र्ऽवत् । ज्योतिः॑ । अभ॑यम् । स्व॒स्ति ।
ऋ॒ष्वा । ते॒ । इ॒न्द्र॒ । स्थवि॑रस्य । बा॒हू इति॑ । उप॑ । स्थे॒या॒म॒ । श॒र॒णा । बृ॒हन्ता॑ ॥

सायणभाष्यम्

हेइन्द्र विद्वान् जानंस्त्वंउरुं विस्तीर्णंलोकंस्थानंस्वर्गाख्यंनोस्मान् अनुनेषि अनुगमय तथास्वर्वत् सुखवत् अभयंभयर हितंज्योतिश्च- स्वस्तिक्षेमेणअनुनेषि अस्माननुगमय हेइन्द्र स्थाविरस्यस्थूलस्यवृद्धस्यतेतवसंबंधिनौऋष्वादर्शनीयौ बृहन्तामहान्तौ बाहूत्वदीयौहस्तौ- शरणाशरणौरक्षकौरक्षकतयाउपस्थेयाम उपतिष्ठेम सेवेमहि ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१