मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४७, ऋक् ९

संहिता

वरि॑ष्ठे न इन्द्र व॒न्धुरे॑ धा॒ वहि॑ष्ठयोः शताव॒न्नश्व॑यो॒रा ।
इष॒मा व॑क्षी॒षां वर्षि॑ष्ठां॒ मा न॑स्तारीन्मघव॒न्रायो॑ अ॒र्यः ॥

पदपाठः

वरि॑ष्ठे । नः॒ । इ॒न्द्र॒ । व॒न्धुरे॑ । धाः॒ । वहि॑ष्ठयोः । श॒त॒ऽव॒न् । अश्व॑योः । आ ।
इष॑म् । आ । व॒क्षि॒ । इ॒षाम् । वर्षि॑ष्ठाम् । मा । नः॒ । ता॒री॒त् । म॒घ॒ऽव॒न् । रायः॑ । अ॒र्यः ॥

सायणभाष्यम्

हेइन्द्र वरिष्ठेउरुतमेविस्तीर्णतमेवंधुरे आत्मीयेरथे नोस्मान् धाःधेहिधारय अपिच हेशतवन् शतसंख्यधनेन्द्र वहिष्ठयोर्वोढृतमयोः आ- कारःसमुच्चये अश्वयोरात्वदीययोः अश्वयोश्चास्मान् धारय तथाइषामन्नानांमध्येवर्षिष्ठांवृद्धतमांइषमन्नमावक्षि अस्मदर्थमावह आनय हेमधवन् धनवन्निंद्र अर्योधनस्यस्वामी अन्यः कश्चित् नोस्माकंरायोधनानिमातारीत् माहिंसीत् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१