मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४७, ऋक् १०

संहिता

इन्द्र॑ मृ॒ळ मह्यं॑ जी॒वातु॑मिच्छ चो॒दय॒ धिय॒मय॑सो॒ न धारा॑म् ।
यत्किं चा॒हं त्वा॒युरि॒दं वदा॑मि॒ तज्जु॑षस्व कृ॒धि मा॑ दे॒वव॑न्तम् ॥

पदपाठः

इन्द्र॑ । मृ॒ळ । मह्य॑म् । जी॒वातु॑म् । इ॒च्छ॒ । चो॒दय॑ । धिय॑म् । अय॑सः । न । धारा॑म् ।
यत् । किम् । च॒ । अ॒हम् । त्वा॒ऽयुः । इ॒दम् । वदा॑मि । तत् । जु॒ष॒स्व॒ । कृ॒धि । मा॒ । दे॒वऽव॑न्तम् ॥

सायणभाष्यम्

हेइन्द्र मृळ मृळय अस्मान्सुखय जीवातुंजीवनौषधंचमह्यंदातुमिच्छ तथाधियंबुद्धिचोदय स्तुतिविषयांकर्मविषयांवाप्रेरय तीक्ष्णीकुरु अयसोनधारां अयोमयस्यखड्गादेःधारामिव सा यथासूक्ष्मातद्वत् सूक्ष्मविषयांधियंचोदयेत्यर्थः किंचत्वायुःत्वामात्मनइच्छन् इदमिदा- नींयत्किंचनाहंवदामिसमीचीनमसमीचीनंवातज्जुषस्व मामांचदेववन्तंरक्षकैर्देवैरुपेतंकृधिकुरु ॥ १० ॥ आयुष्कामेष्ट्यांइन्द्रस्यत्रातुस्त्रातारमित्यनुवाक्या सूत्रितंच—त्रातारमिन्द्रमवितारमिन्द्रंमातेअस्यांसहसावन्परिष्टाविति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१