मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४७, ऋक् ११

संहिता

त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्रं॒ हवे॑हवे सु॒हवं॒ शूर॒मिन्द्र॑म् ।
ह्वया॑मि श॒क्रं पु॑रुहू॒तमिन्द्रं॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्र॑ः ॥

पदपाठः

त्रा॒तार॑म् । इन्द्र॑म् । अ॒वि॒तार॑म् । इन्द्र॑म् । हवे॑ऽहवे । सु॒ऽहव॑म् । शूर॑म् । इन्द्र॑म् ।
ह्वया॑मि । श॒क्रम् । पु॒रु॒ऽहू॒तम् । इन्द्र॑म् । स्व॒स्ति । नः॒ । म॒घऽवा॑ । धा॒तु॒ । इन्द्रः॑ ॥

सायणभाष्यम्

त्रातारंशत्रुभ्यःपालयितारमिन्द्रमाह्वयामि तथाअवितारं कामैस्तर्पयितारमिन्द्रमाह्वयामि हवेहवेसर्वेष्वाहवनेषु सुहवंसुखेनाह्वा- तुंशक्यंशूरंशौर्यवन्तं शक्रंसर्वकार्येषुशक्तं पुरुहूतंपुरुभिर्बहुभिः पालनार्थमाहूतं एवंविधमिन्द्रंह्वयाम्याह्वयामि एवमाहूतोमघवाधनवा- न्सइन्द्रःस्वस्ति अविनाशंनोस्मभ्यंधातुददातु यद्वास्माकंविदधातु ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२