मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४७, ऋक् १३

संहिता

तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ।
स सु॒त्रामा॒ स्ववाँ॒ इन्द्रो॑ अ॒स्मे आ॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योतु ॥

पदपाठः

तस्य॑ । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिय॑स्य । अपि॑ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ।
सः । सु॒ऽत्रामा॑ । स्वऽवा॑न् । इन्द्रः॑ । अ॒स्मे इति॑ । आ॒रात् । चि॒त् । द्वेषः॑ । स॒नु॒तः । यु॒यो॒तु॒ ॥

सायणभाष्यम्

यज्ञियस्ययज्ञार्हस्यतस्येन्द्रस्यसुमतौ शोभनायामनुग्रहात्मिकायांबृद्धौवंयस्याम विषयभूताभवेम तथाभद्वेकल्याणेसौमनसेसुमनोभा- वेपितदीयेस्याम भवेम सइन्द्रोस्मासुअनुग्रहात्मिकां बुद्धिंसौमनस्यंचकरोत्वित्यर्थः सुत्रामासुष्ठुत्रातास्ववान् धनवान् सइन्द्रश्च अस्मेअ- स्मत्तः आराच्चित् दूरदेशेएवद्वेषःद्वेष्टृन् सनुतः अन्तर्हितनामैतत् अंतर्हितान् युयोतुपृथक्करोतु ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२