मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४७, ऋक् १७

संहिता

परा॒ पूर्वे॑षां स॒ख्या वृ॑णक्ति वि॒तर्तु॑राणो॒ अप॑रेभिरेति ।
अना॑नुभूतीरवधून्वा॒नः पू॒र्वीरिन्द्र॑ः श॒रद॑स्तर्तरीति ॥

पदपाठः

परा॑ । पूर्वे॑षाम् । स॒ख्या । वृ॒ण॒क्ति॒ । वि॒ऽतर्तु॑राणः । अप॑रेभिः । ए॒ति॒ ।
अन॑नुऽभूतीः । अ॒व॒ऽधू॒न्वा॒नः । पू॒र्वीः । इन्द्रः॑ । श॒रदः॑ । त॒र्त॒री॒ति॒ ॥

सायणभाष्यम्

अयमिन्द्रः पूर्वेषांपूर्वभाविनांप्रशस्तानांकर्मणांकुर्वतांपुरुषाणांसख्यासखित्वानिपरावृणक्ति वर्जयति अपिच वितर्तुराणस्तान् हिंसन् अपरेभिरपरैः अमुख्यैरप्रशस्तैरपिकर्मानुष्ठातृभिः एति सख्यंप्राप्नोति तथाअनानुभूतीः अपरिचरणाःप्रजाः अवधून्वानः परित्यजन् पूर्वी- र्बह्वीः शरदःसंवत्सरान्अयमिन्द्रः तर्तरीति भृशमतिक्रामति स्तोतृभिःसहसख्यंकुर्वन् चिरकालंवसतीत्यर्थः ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३