मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४७, ऋक् १९

संहिता

यु॒जा॒नो ह॒रिता॒ रथे॒ भूरि॒ त्वष्टे॒ह रा॑जति ।
को वि॒श्वाहा॑ द्विष॒तः पक्ष॑ आसत उ॒तासी॑नेषु सू॒रिषु॑ ॥

पदपाठः

यु॒जा॒नः । ह॒रिता॑ । रथे॑ । भूरि॑ । त्वष्टा॑ । इ॒ह । रा॒ज॒ति॒ ।
कः । वि॒श्वाहा॑ । द्वि॒ष॒तः । पक्षः॑ । आ॒स॒ते॒ । उ॒त । आसी॑नेषु । सू॒रिषु॑ ॥

सायणभाष्यम्

हरिताहरितावश्वौ रथेयुजानोयुंजन् त्वष्टादीप्तइन्द्रः इहत्रैलोक्येभूरिभूरिषु बहुषुप्रदेशेषु राजति दीप्यते उतापिच सूरिषुस्तोतृषुअ- स्मादृशेषु आसीनेषुसत्सु विश्वाहासर्वदाइन्द्रादन्यः कोनामद्विषतः शत्रोः पक्षःपाचकोबाधकः सन् आसते आस्ते इन्द्रएवसर्वदा शत्रून् बा- धतइत्यर्थः यद्वा पक्षइतिसकारान्तंसमीपवचनं इन्द्रादन्यः कोनामद्विषतः शत्रोः समीपेआसते आस्तेइन्द्रएवनिर्भयःसन् शत्रुसमीपेस्था- तुंशक्नोतीतिभावः ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३