मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४७, ऋक् २३

संहिता

दशाश्वा॒न्दश॒ कोशा॒न्दश॒ वस्त्राधि॑भोजना ।
दशो॑ हिरण्यपि॒ण्डान्दिवो॑दासादसानिषम् ॥

पदपाठः

दश॑ । अश्वा॑न् । दश॑ । कोशा॑न् । दश॑ । वस्त्रा॑ । अधि॑ऽभोजना ।
दशो॒ इति॑ । हि॒र॒ण्य॒ऽपि॒ण्डान् । दिवः॑ऽदासात् । अ॒सा॒नि॒ष॒म् ॥

सायणभाष्यम्

दशदशसंख्याकानश्वान् दशसंख्याकान् हिरण्यपूर्णान् कोशान् अधिभोजना भोजनमितिधननाम अधिकंधनंयेषांमूल्यंतादृशानिदश- संख्यानिवस्त्राणिच दशोदशचदशसंख्याकांश्च हिरण्यपिंडान् सुवर्णपिंडान् एतान् सर्वान् दिवोदासात् प्रस्तोदात् अहमसानिषंसमभजं लब्धवानस्मि ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४