मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४७, ऋक् २४

संहिता

दश॒ रथा॒न्प्रष्टि॑मतः श॒तं गा अथ॑र्वभ्यः ।
अ॒श्व॒थः पा॒यवे॑ऽदात् ॥

पदपाठः

दश॑ । रथा॑न् । प्रष्टि॑ऽमतः । श॒तम् । गाः । अथ॑र्वऽभ्यः ।
अ॒श्व॒थः । पा॒यवे॑ । अ॒दा॒त् ॥

सायणभाष्यम्

दशदशसंख्याकान् प्रष्टिमतः प्रष्टिस्त्रिपदआधारः तद्वद्वहन्तीतिप्रष्टयीश्वाः तद्युक्तान् रथान् शतंशतसंख्याकागाश्चअथर्वभ्यः अथर्वगोत्रे- भ्यऋषिभ्यः पायवेभरद्वाजपुत्रायएतत्संज्ञायास्मद्भात्रेच अश्वथः अश्ववानेतत्संज्ञःप्रस्तोकः अदात् दत्तवान् ॥ २४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४