मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४७, ऋक् २५

संहिता

महि॒ राधो॑ वि॒श्वज॑न्यं॒ दधा॑नान्भ॒रद्वा॑जान्त्सार्ञ्ज॒यो अ॒भ्य॑यष्ट ॥

पदपाठः

महि॑ । राधः॑ । वि॒श्वऽज॑न्यम् । दधा॑नान् । भ॒रत्ऽवा॑जान् । स॒र्ञ्ज॒यः । अ॒भि । अ॒य॒ष्ट॒ ॥

सायणभाष्यम्

विश्वजन्यंसर्वजनहितंमहिमहत् राधोधनंदधानान् धारयतोभरद्वाजान् भरद्वाजपुत्रानस्मान् सार्ञ्चयःसृंजयपुत्रः प्रस्तोकः अभ्ययष्ट अपूजयत् ॥ २५ ॥ वनस्पतइत्येषारथारोहणेविनियुक्ता सूत्रितंच—वनस्पतेवीड्ढंगोहिभूयाइत्येतयान्यान्यपिवानस्पत्यानीति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४