मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४७, ऋक् २७

संहिता

दि॒वस्पृ॑थि॒व्याः पर्योज॒ उद्भृ॑तं॒ वन॒स्पति॑भ्य॒ः पर्याभृ॑तं॒ सहः॑ ।
अ॒पामो॒ज्मानं॒ परि॒ गोभि॒रावृ॑त॒मिन्द्र॑स्य॒ वज्रं॑ ह॒विषा॒ रथं॑ यज ॥

पदपाठः

दि॒वः । पृ॒थि॒व्याः । परि॑ । ओजः॑ । उत्ऽभृ॑तम् । वन॒स्पति॑ऽभ्यः । परि॑ । आऽभृ॑तम् । सहः॑ ।
अ॒पाम् । ओ॒ज्मान॑म् । परि॑ । गोभिः॑ । आऽवृ॑तम् । इन्द्र॑स्य । वज्र॑म् । ह॒विषा॑ । रथ॑म् । य॒ज॒ ॥

सायणभाष्यम्

दिवोद्युलोकात् पृथिव्याभूमेश्चउद्भ्रुतं उद्धतंसारत्वेनोपात्तं यदोजोबलमस्ति तद्रूपंवनस्पतिविकारत्वात् रथस्यवनस्पतयोहिपृथि- व्याः सारभूताः तेचद्युसंबन्धिभिरुदकैःप्रवृद्धाः अतोरथस्यलोकद्वयसारत्वमुपपन्नं परिःपंचम्यर्थानुवादी अपिच वनस्पतिभ्योवृक्षेभ्यः परिपूर्ववत् आभृतमाहृतंसहोबलरूपं अपामुदकानांओज्मानंप्रेरकं यद्वा ओज्मावेगः अपांवेगइववेगवन्तंगोभिः गोविकारैः चर्मभिः परि- तआवृतं आवेष्टितं इन्द्रस्यवज्रंवज्रैकदेशं श्रूयतेहि—इन्द्रोवृत्रायवज्रमुदयच्छ्त् सत्रेधाव्यभजत् वज्रस्तृतीयंरथस्तृतीयंयूपस्तृतीयमिति । एवंगुणविशिष्टंरथंहविषापुरोडाशादिनाहेअध्वर्यो यजनूनमेषाउत्तराचरथदेवत्यस्यहविषोयाज्यानुवाक्येलिंगादवगंतव्ये ॥ २७ ॥

  • ऋग्वेदः  ६.४७.२७
  • ऋषिः  गर्गः
  • देवता  रथः
  • छन्दः  जगती
  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५