मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४७, ऋक् २८

संहिता

इन्द्र॑स्य॒ वज्रो॑ म॒रुता॒मनी॑कं मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभि॑ः ।
सेमां नो॑ ह॒व्यदा॑तिं जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ॥

पदपाठः

इन्द्र॑स्य । वज्रः॑ । म॒रुता॑म् । अनी॑कम् । मि॒त्रस्य॑ । गर्भः॑ । वरु॑णस्य । नाभिः॑ ।
सः । इ॒माम् । नः॒ । ह॒व्यद्ऽआ॑तिम् । जु॒षा॒णः । देव॑ । र॒थ॒ । प्रति॑ । ह॒व्या । गृ॒भा॒य॒ ॥

सायणभाष्यम्

योरथः इन्द्रस्यवज्रः उक्तप्रकारेणवज्रैकदेशः मरुतांएतत्संज्ञानांदेवगणानांअनीकंअग्रभूतं तद्वत् शीघ्रगामीमित्रस्यअहरभिमानिनोदेव- स्यगर्भोगर्भवदंतर्वर्तमानः अहनिहिरथः संचरति वरुणस्यरात्र्यभिमानिदेवस्यनाभिः नाभिस्थानीयः नाभिर्यथादेहमध्येनैश्चल्येनावतिष्ठ- तेतद्वत् रात्रौक्वचिदेवस्थितः हेदेव द्योतमानरथयउक्तगुणःक् सतादृशस्त्वं इमांनोस्मदीयांहव्यदातिंहविर्दानव तींयागक्रियां जुषाणःसेव- मानः सन् हव्या हव्यान्यस्मदीयानिहवींषि प्रतिगृभाय प्रतिगृहाण ॥ २८ ॥ परेणतृचेनसंग्रामेदुंदुभिरभिमर्शनीयः सूत्रितंच—उपश्वासयपृथिवीमुतद्यामितितृचेनदुंदुभिमभिमृशेदिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५