मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४७, ऋक् २९

संहिता

उप॑ श्वासय पृथि॒वीमु॒त द्यां पु॑रु॒त्रा ते॑ मनुतां॒ विष्ठि॑तं॒ जग॑त् ।
स दु॑न्दुभे स॒जूरिन्द्रे॑ण दे॒वैर्दू॒राद्दवी॑यो॒ अप॑ सेध॒ शत्रू॑न् ॥

पदपाठः

उप॑ । श्वा॒स॒य॒ । पृ॒थि॒वीम् । उ॒त । द्याम् । पु॒रु॒ऽत्रा । ते॒ । म॒नु॒ता॒म् । विऽस्थि॑तम् । जग॑त् ।
सः । दु॒न्दु॒भे॒ । स॒ऽजूः । इन्द्रे॑ण । दे॒वैः । दू॒रात् । दवी॑यः । अप॑ । से॒ध॒ । शत्रू॑न् ॥

सायणभाष्यम्

हेदुंदुभे पृथिवींउतापिच द्यंदिवंउपश्वासय आत्मीयेनजयघोषेणाश्वासय यथा लोकद्वयंत्वदीयेनशब्देनापूरितंभवति तादृशंशब्दंकुर्वि- त्यर्थः अपिचविस्थितंविशेषेणस्थितं स्थावरंजंगमंच उभयविधंप्राणिजातंतेत्वदीयंशब्दंपुरुत्राबहुधामनुतांमन्यतांजानात् हेदुंदुभे सत्वं- इन्द्रेण अन्यैर्देश्चसजूःसहदूराद्दवीयः दूरादपिदूरतरंशत्रूनस्मदीयान् अपसेध अपगमय अत्रनिरुक्तं—दुंदुभिरितिशब्दानुकरणंद्रुमोभिन्न- मितिवादंदभ्यतेर्वास्याद्वधकर्मणइत्यादि ॥ २९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५