मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४७, ऋक् ३०

संहिता

आ क्र॑न्दय॒ बल॒मोजो॑ न॒ आ धा॒ निः ष्ट॑निहि दुरि॒ता बाध॑मानः ।
अप॑ प्रोथ दुन्दुभे दु॒च्छुना॑ इ॒त इन्द्र॑स्य मु॒ष्टिर॑सि वी॒ळय॑स्व ॥

पदपाठः

आ । क्र॒न्द॒य॒ । बल॑म् । ओजः॑ । नः॒ । आ । धाः॒ । निः । स्त॒नि॒हि॒ । दुः॒ऽइ॒ता । बाध॑मानः ।
अप॑ । प्रो॒थ॒ । दु॒न्दु॒भे॒ । दु॒च्छुनाः॑ । इ॒तः । इन्द्र॑स्य । मु॒ष्टिः । अ॒सि॒ । वी॒ळय॑स्व ॥

सायणभाष्यम्

हेदुंदुभे आक्रन्दयअस्मच्छत्रून् रोदय बलंसेनारूपंओजःशरीरबलंच नोस्मभ्यंआधाः आधेहि प्रयच्छ तथादुरितादुरितानि दुर्गमनानि- बाधमानोहिंसंस्त्वंनिस्तनिहि नितरांशब्दंकुरुस्तनशब्दइतिधातुः हेदुंदुभे दुच्छुनाःअस्मद्दुःखहेतुभूतंशुनंसुखंयासांतादृशीःशत्रुसेनाःइतो- स्मात्स्थानात् अपप्रोथबाधस्वत्वंचेन्द्रस्यमुष्टिरसि मुष्टिरिवशत्रूणांहन्ताभवसि अतोस्मान्वीळयस्व दृढीकरु ॥ ३० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५