मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४८, ऋक् १

संहिता

य॒ज्ञाय॑ज्ञा वो अ॒ग्नये॑ गि॒रागि॑रा च॒ दक्ष॑से ।
प्रप्र॑ व॒यम॒मृतं॑ जा॒तवे॑दसं प्रि॒यं मि॒त्रं न शं॑सिषम् ॥

पदपाठः

य॒ज्ञाऽय॑ज्ञा । वः॒ । अ॒ग्नये॑ । गि॒राऽगि॑रा । च॒ । दक्ष॑से ।
प्रऽप्र॑ । व॒यम् । अ॒मृत॑म् । जा॒तऽवे॑दसम् । प्रि॒यम् । मि॒त्रम् । न । शं॒सि॒ष॒म् ॥

सायणभाष्यम्

यस्यनिः श्वसितंवेदायोवेदेभ्योखिलंजगत् । निर्ममेतमहंवन्देविद्यातीर्थमहेश्वरम् ॥ १ ॥

अथाष्टमोध्यायआरभ्यते । षष्ठमंडलस्यचतुर्थेनुवाकेचत्वारिसूक्तानिव्याकृतानि यज्ञायज्ञेतिद्वाविंशत्यृचंपंमंसूक्तंबृहस्पतिपुत्रस्यशंयोरार्षं अत्रानुक्रम्यते—यज्ञायज्ञाद्भधिकाशंयुस्तृणपाणिकंपृश्निसूक्तंप्रगाथौबृहतीमहासतोबृहतीमहाबार्हतबार्हतौप्रगाथावित्याग्नेय्यःकाकुभः प्र- गाथः पुरउष्णिग्बृहत्यतिजगतीतिमारुत्योत्यास्तिस्रोवासांलिंगोक्तदेवताः काकुभः प्रगाथः पुरउष्णिक् बृहतीतिपौष्ण्योबृहतीमहाबृहती- यवमध्यांत्यानुष्टुप् मारुत्योंत्याद्यावाभूम्योर्वापृश्नेर्वेति । यज्ञायज्ञावइत्येषाबृहती तृतीयद्वादशकात्र्यष्टकेतितल्लक्षणसद्भावात् द्वितीया- सतोबृहती अयुजौजागतौ सतोबृहतीत्युक्तलक्षणोपेतत्वात् तृतीयाचतुर्थीबृहतीसतोबृहत्यौ पंचमीबृहती षष्ठीमहासतोबृहती अष्टाक्षरा- स्त्रयः पादाः द्वादशाक्षरौद्वौपादौसामहासतोबृहती सप्तमीमहाबृहतीअष्टाक्षराश्चत्वारः पादाः एकोद्वादशाक्षरःसामहाबृहती अष्टमीमहा- सतोबृहतीअष्टिनस्त्रयः द्वौजागतौसामहासतोबृहती नवमीबृहतीदशमीसतोबृहती एतादशाग्निदेवत्याः एकादशीककुप् मध्यमोयदिद्वाद- शाक्षरः उभयतोष्टकौद्वौपादौसाककुप् द्वादशीसतोबृहतीत्रयोदशीपुरउष्णिक् आद्योजागतः द्वितीयतृतीयौगायत्रौ सापुरउष्णिक् चतुर्द- शीबृहतीपंचदशीअतिजगतीद्वापंचाशदक्षरा एकादश्याद्याःपंचमरुद्देवताकाः त्रयोदश्यादीनांतिसृणांलिंगोक्ताइन्द्रादयोवादेवताःषोडशी- ककुप् सप्तदशीसतोबृहतीअष्टादशीपुरउष्णिक् एकोनविंशीबृहतीषोळश्यादीनांचतसृणांपूषादेवताविंशीबृहतीएकविंशीयवमध्यामहाबृ- हतीआद्यौद्वावष्टकौतृतीयोद्वादशकः चतुर्थपंचमावष्टकौसायवमध्यामहाबृहतीविंश्येकविंश्योः पृश्निसूक्तमित्युक्तत्वान्मरुतांमातापृश्निर्देव- ताद्वाविंश्यनुष्टुप् साचापिपृश्निदेवत्याद्यावाभूमिदेवत्यावा सूक्तविनियोगोलैंगिकः । आग्निमारुतेयज्ञायज्ञावइत्ययंस्तोत्रियप्रगाथः सूत्रि- तंच—यज्ञायज्ञाकोअग्नयेदेवोवोद्रविणोदाइतिप्रगाथौस्तोत्रियानुरूपाविति ।

हेस्तोतारोवोयूयंयज्ञायज्ञा यज्ञेयज्ञे सर्वेषुयागेषुदक्षसेप्रवृद्धायाग्नये गिरागिरास्तुतिरूपया वाचावाचास्तोत्रंकुरुतेतिशेषः चशब्दो- भिन्नक्रमोवइत्यस्मात्परोद्रष्टव्यः यूयंचस्तोत्रंकुरुत वयमपितमग्निंप्रप्रशंसिपं प्रसमुपोदःपादपूरणइतिप्रशब्दस्यद्विरुक्तिः पादपूरणार्था व्यत्ययेनैकवचनं छान्दसोलुङ् प्रशंसाम कीदृशंअमृतंमरणरहितं जातवेदसंजातानांवेदितारं जातप्रज्ञंजातधनंवा मित्रंन सखिभूतमिव- प्रियंअनुकूलं यद्वा व्यत्ययेनत्वमित्यस्यवसादेशः अग्नयइतिचकर्मणिचतुर्थी क्रियाग्नहणमपिकर्तव्यमितिकर्मणः संप्रदानत्वाच्चशब्दश्चणिति- निपातश्चेदर्थेवर्तते दक्षसइतिचदक्षेर्वृद्धिकर्मणोन्तर्भावितण्यर्थाल्लटिरूपं चणायोगात् निपातैर्यद्यदिहन्तेतिनिघातप्रतिषेधः तत्रायमर्थः- हेस्तोतस्त्वंयज्ञेइममग्निंगिरास्तुत्यादक्षसेचवर्धयसिचेत् वयमपिअमृत्वादिगुणकंतंप्रशंसाम ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः