मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४८, ऋक् ४

संहिता

म॒हो दे॒वान्यज॑सि॒ यक्ष्या॑नु॒षक्तव॒ क्रत्वो॒त दं॒सना॑ ।
अ॒र्वाचः॑ सीं कृणुह्य॒ग्नेऽव॑से॒ रास्व॒ वाजो॒त वं॑स्व ॥

पदपाठः

म॒हः । दे॒वान् । यज॑सि । यक्षि॑ । आ॒नु॒षक् । तव॑ । क्रत्वा॑ । उ॒त । दं॒सना॑ ।
अ॒र्वाचः॑ । सी॒म् । कृ॒णु॒हि॒ । अ॒ग्ने॒ । अव॑से । रास्व॑ । वाजा॑ । उ॒त । वं॒स्व॒ ॥

सायणभाष्यम्

हेअग्ने त्वंमहोमहतोदेवान् यजसि यजमानानांयज्ञेहविर्भिःपूजयसि अतोस्माकमपियज्ञेआनुषक् अनुषक्तंसन्ततंयथाभवतितथायक्षि तान्देवान् यज तदर्थंतवक्रत्वाप्रज्ञया उतापिचदंसनाकर्मणाच सीमितिपरिग्रहार्थीयः तान् सर्वान् देवान् अर्वाचः अस्मदभिमुखान् कृणु- हिकुरु अवसेअस्मद्रक्षणार्थं तथावाजावाजान् हविर्लक्षणान्यन्नानिरास्वतेभ्योदेवेभ्योदेहि उतापिच त्वमपिवंस्वतुभ्यंप्रत्तानिहवींषिसं- भजस्व ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः