मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४८, ऋक् ५

संहिता

यमापो॒ अद्र॑यो॒ वना॒ गर्भ॑मृ॒तस्य॒ पिप्र॑ति ।
सह॑सा॒ यो म॑थि॒तो जाय॑ते॒ नृभि॑ः पृथि॒व्या अधि॒ सान॑वि ॥

पदपाठः

यम् । आपः॑ । अद्र॑यः । वना॑ । गर्भ॑म् । ऋ॒तस्य॑ । पिप्र॑ति ।
सह॑सा । यः । म॒थि॒तः । जाय॑ते । नृऽभिः॑ । पृ॒थि॒व्याः । अधि॑ । सान॑वि ॥

सायणभाष्यम्

आपोवसतीवर्याख्याः अद्रयोग्रावाणः वनावनानिकाष्ठानिच ऋतस्ययज्ञस्योदकस्यवा गर्भं गर्भवदन्तर्वर्तमानंयमग्निंपिप्रति पूरयन्ति यद्वा आपःसमुद्रियाअद्रयोमेघाः वनान्यरण्यानिच ऋतस्यगर्भंवाडववैद्युतदावरूपेणवर्तमानं यमग्निंपिप्रति पूरयन्ति यश्चाग्निःनृभिर्नेतृभिः ऋत्विग्भिः सहसाबलेनमथितः सन् पृथिव्याअधिभूमेरुपरिसानविसमुच्छ्रितेउत्कृष्टेदेवयजनदेशेजायतेप्रादुर्भवति सत्वंवंस्वेत्यन्वयः यद्वा- यः पप्रावित्यनयासंबन्धः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः